|
|
 |
 |
|
|
३ आरण्यकपर्व.jpg)
॥ श्रीः ॥
3.314. अध्यायः 314
Mahabharata - Vana Parva - Chapter Topics
युधिष्ठिरेण सरस्तीरशायिनां भ्रातृणामबलोकनेन सकरुणं परिदेवनपूर्वकं पानीयपानाय प्रयतनम् ॥ 1 ॥ तथा यक्षेण स्वीयप्रश्नानामुत्तरदानमन्तरा जलपानस्य दुश्शकत्वकथनेन तत्प्रतिपेधने तेषां समुचितोत्तरदानम् ॥ 2 ॥ ततस्तुष्टेन यक्षेण भीमादीनां चतुर्णामुज्जीवनम् ॥ 3 ॥
Mahabharata - Vana Parva - Chapter Text
वैशम्पायन उवाच। 3-314-0x(2879)(27948)
स ददर्श हतान्भ्रातृँल्लोकपालानिव च्युतान्।
युगान्ते समनुप्राप्ते शक्रवैश्रवणोपमान् ॥ 3-314-1(27949)
विनिकीर्णधनुर्बाणं दृष्ट्वा निहतमर्जुनम्।
भीमसेनं यमौ चैव निर्विचेष्टान्गतायुषः ॥ 3-314-2(27950)
सदीर्घमुष्णं निःश्वस्य शोकबाष्पपरिप्लुतः।
तान्दृष्ट्वा पतितान्भ्रातॄन्सर्वांश्चिन्तासमन्वितः। 3-314-3(27951)
ननु त्वया महाबाहो प्रतिज्ञातं वृकोदर।
सुयोधनस्य भेत्स्यामि गदया सक्थिनी रणे ॥ 3-314-4(27952)
व्यर्थं तदद्य मे सर्वं त्वयि वीरे निपातिते।
महात्मनि महाबाहो कुरूणां कीर्तिवर्धने ॥ 3-314-5(27953)
मनुष्यसंभवा वाचो विधर्मिण्यः प्रतिश्रुताः।
भवतांदिव्यवाचस्तु ता भवन्तु कथं मृपा ॥ 3-314-6(27954)
देवाश्चापि यदाऽवोचन्मूतके त्वां धनंजय।
सहस्राक्षादनवरः कुन्ति पुत्रस्तवेति वै ॥ 3-314-7(27955)
उत्तरे पारियात्रे च जगुर्भूतानि सर्वशः।
विप्रनष्टां श्रियं चैषामाहर्ता पुनरोजसा ॥ 3-314-8(27956)
नास्य जेता रणे कश्चिदजेता नैष कस्यचित्।
सोयं मृत्युवशं यातः कथं जिष्णुर्महाबलः ॥ 3-314-9(27957)
अयंममाशां संहत्य शेते भूमौ धनंजयः।
आश्रित्ययं वयं नाथं दुःखान्येतानिसेहिम ॥ 3-314-10(27958)
रणे प्रगल्भौ वीरौ चसदा शत्रुनिबर्हणौ।
कथं रिपुवशं यातौ कुन्तीपुत्रौ महाबलौ।
यौ सर्वास्त्राप्रतिहतौ भीमसेनधनंजयौ ॥ 3-314-11(27959)
अश्मसारमयं नूनं हृदयं मम दुर्हृदः।
यमौ यदेतौ दृष्ट्वाऽद्य पतितौ नावदीर्यते ॥ 3-314-12(27960)
शास्त्रज्ञा देशकालज्ञास्तपोयुक्ताः क्रियान्विताः।
अकृत्वा सदृशं कर्म किं शेध्वं पुरुषर्षभाः ॥ 3-314-13(27961)
अविक्षतशरीराश्चाप्यप्रमृष्टशरासनाः।
असंज्ञा भुवि संगम्य किं शेष्वमपराजिताः ॥ 3-314-14(27962)
सानूनिवाद्रेः संसुप्तान्दृष्ट्वा भ्रातृन्महामतिः।
सुखं प्रसुप्तान्प्रस्विन्नः खिन्नः कष्टां दशां गतः ॥ 3-314-15(27963)
एवमेवेदमित्युक्त्वा धर्मात्मा स नरेश्वरः।
शोकसागरमध्यस्थो दध्यौ कारणमाकुलः ॥ 3-314-16(27964)
इतिकर्तव्यतां चेति देशकालविभागवित्।
नाभिपेदे महाबाहुश्चिन्तयानो महामतिः ॥ 3-314-17(27965)
अथसंस्तभ्य धर्मात्मा तदाऽऽत्मानं तपःसुतः।
एवंविलप्य बहुधा धर्मपुत्रो युधिष्ठिरः।
बुद्ध्या विचिन्तयामासवीराः केन निपातिताः ॥ 3-314-18(27966)
नैषां शस्त्रप्रहारोस्ति पदं नेहास्ति कस्यचित्।
भूतं महदेदं मन्ये भ्रातरो येन मे हताः ॥ 3-314-19(27967)
एकाग्रं चिन्तयिष्यामि पीत्वा वेत्स्यामि वा जलम्।
`भ्रातॄणां न्न्यसनं घोरं सममेव महात्मनाम्' ॥ 3-314-20(27968)
स्यात्तु दुर्योधनेनेदमुपांशु परिकल्पितम्।
गान्धारराजरचितं सततं जिह्मवुद्धिना ॥ 3-314-21(27969)
यस् कार्यमकार्यं वा सममेव भवत्युत।
कस्तस्य विश्वसेद्वीरो दुष्कृतेरकृतात्मनः ॥ 3-314-22(27970)
अथवा पुरुषैर्गूढैः प्रयोगोऽयंदुरात्मनः।
भवेदिति महाबुद्धिर्बहुधा समचिन्तयत् ॥ 3-314-23(27971)
`आचार्यं किंनु वक्ष्यामि कृपं भीष्ममहं नु किम्।
विदुरं किंनु वक्ष्यामि बृहस्पतिसमं नये ॥ 3-314-24(27972)
अम्बां च किंनु वक्ष्यामि सर्वदा दुःखभागिनीम्।
दृष्ट्वा मां भ्रातृभिर्हीनं पृच्छन्तीं पुत्रगृद्धिनीम् ॥ 3-314-25(27973)
यदा त्वं भ्रातृभिः सर्वैः शक्रतुल्यपराक्रमैः।
सार्धं वनं गतो वीरैः कथमेकस्त्वमागतः' ॥ 3-314-26(27974)
कस्य किंनु विषेणेदमुदकं दूपितं यथा।
मृतानामपि चैतेषां विकृतं नैव जायते।
मुखवर्णाः प्रसन्ना मे भ्रातॄणामित्यचिन्तयत् ॥ 3-314-27(27975)
एकैकशश्चौघबलानिमान्पुरुपसत्तमान्।
कोऽन्यः प्रतिसमासेत कालान्तकयमादृते ॥ 3-314-28(27976)
एतेन व्यवसायेन तत्तोयं व्यवगाढवान्।
पातुकामश्च तत्तोयमन्तरिक्षात्स शुश्रुवे ॥ 3-314-29(27977)
यक्ष उवाच। 3-314-30x(2880)
अहं बकः शैवलमत्स्यभक्षो
नीता मया प्रेतवशं तवानुजाः।
त्वं पञ्चमो भविता राजपुत्र
न चेत्प्रश्नान्पृच्छतो व्याकरोपि ॥ 3-314-30(27978)
मा तात साहसंकार्पीर्मम पूर्वपरिग्रहः।
प्रश्नानुक्त्वा तु कौन्तेय ततः पिब हरस्व च ॥ 3-314-31(27979)
युधिष्ठिर उवाच। 3-314-32x(2881)
रुद्राणां वा वसूनां वामरुतां वा प्रधानभाक्।
पृच्छामि को भवान्देवो नैतच्छकुनिना कृतम् ॥ 3-314-32(27980)
हिमवान्पारियात्रश्च विन्ध्यो भलय एव च।
चत्वारः पर्वताः केन पातिता भुवि तेजसा ॥ 3-314-33(27981)
त्वयाऽतीव महत्कर्म कृतं च बलिनांवर।
`विनिघ्नता महेष्वासांश्चतुरोपि ममात्मजान्' ॥ 3-314-34(27982)
यान्न देवान गन्धर्वानासुराश्च न राक्षसाः।
विपहेरन्महायुद्धे कृतं ते तन्महाद्भुतम् ॥ 3-314-35(27983)
न ते जानामि यत्कार्यं नाभिजानामि काङ्क्षित्तम्।
कौतूहलं महज्जातं साध्वसं चागतं मम ॥ 3-314-36(27984)
येनास्स्युद्विग्नहृदयः समुत्पन्नशिरोज्वरः।
पृच्छामि भगवंस्तस्मात्को भवानिह तिष्ठति ॥ 3-314-37(27985)
यक्ष उवाच। 3-314-38x(2882)
यक्षोऽहमस्मि भद्रं ते नास्मि पक्षी जलेचरः।
मयैते निहता सर्वे भ्रातरस्ते निवारिताः ॥ 3-314-38(27986)
वैशम्पायन उवाच। 3-314-39x(2883)
ततस्तामशिवां श्रुत्वावाचं स परुपाक्षराम्।
यक्षस् ब्रुवतो राजन्नाकम्पत तदाऽऽस्थितः ॥ 3-314-39(27987)
विरूपाक्षं महाकायं यक्षं तालसमुच्छ्रयम्।
ज्वलनार्कप्रतीकाशमधृष्यं पर्वतोपमम् ॥ 3-314-40(27988)
सेतुमाश्रित्य तिष्ठन्तं दद्रश भरतर्षभः।
मेघगम्भीरनादेन तर्जयन्तं महास्वनम् ॥ 3-314-41(27989)
`उवाच यक्षः कौन्तेयं भ्रातृशोकप्रपीडितम्' ॥ 3-314-42(27990)
इमे तेभ्रातरो राजन्वार्यमाणआ मयाऽसकृत्।
बलात्तोयं जिहीर्षन्तस्ततो वै मृदिता मया।
न पेयमुदकं राजन्प्राणानिह परीप्सता ॥ 3-314-43(27991)
पार्थ मा साहसं कार्पीर्मम पूर्वपरिग्रहः।
प्रश्नानुक्त्वा तु कौन्तेय ततःपिब हरस्व च ॥ 3-314-44(27992)
यूधिष्ठिर उवाच। 3-314-45x(2884)
न चाहं कामये यक्ष तव पूर्वपरिग्रहम् ॥ 3-314-45(27993)
कामं नैतत्प्रसंसन्ति सन्तो हि पुरुषाः सदा।
यदात्मना स्वमात्मानं प्रशंसेत्पुरुषर्षभ।
यथाप्रज्ञं तु ते प्रश्नान्प्रतिवक्ष्यामि पृच्छ माम् ॥ 3-314-46(27994)
यक्ष उवाच। 3-314-47x(2885)
किंस्विदादित्यमुन्नयति के च तस्याभितश्चराः।
कश्चैनमस्तं नयतिकस्मिंश्च प्रतितिष्ठति ॥ 3-314-47(27995)
युधिष्ठिर उवाच। 3-314-48x(2886)
ब्रह्मादित्यमुन्नयति देवास्तस्याभितश्चराः।
धर्मश्चास्तं नयति च सत्ये च प्रतितिष्ठति ॥ 3-314-48(27996)
यक्ष उवाच। 3-314-29x(2887)
केन स्विच्छ्रोत्रियो भवति केन स्विद्विन्दते महत्।
केन स्विद्द्वितीयवान्भवतिराजन्केन च बुद्दिमान् ॥ 3-314-49(27997)
युधिष्ठिर उवाच। 3-314-50x(2888)
श्रुतेन श्रोत्रियो भति रतपसा विन्दते महत्।
धृत्या द्वितीयवान्भवति बुद्धिमान्वृद्धसेवया ॥ 3-314-50(27998)
यक्ष उवाच। 3-314-51x(2889)
किं ब्राह्मणानां देवत्वं कश्च धर्मः सतामिव।
कश्चैषां मानुषो भावः किमेषामसतामिव ॥ 3-314-51(27999)
युधिष्ठिर उवाच। 3-314-52x(2890)
स्वाध्याय एषां देवत्वं तप एषां सतामिव।
मरणं मानुषो भावः परिवादोऽसतामिव ॥ 3-314-52(28000)
यक्ष उवाच। 3-314-53x(2891)
किं क्षत्रियाणां देवत्वं कश्च धर्मः सतामिव।
कश्चैषां मानुषो भावः किमेषामसतामिव ॥ 3-314-53(28001)
युधिष्ठिर उवाच। 3-314-54x(2892)
इष्वस्त्रमेषां देवत्वं यज्ञ एषां सतामिव।
भयं वै मानुषो भावः परित्यागोऽसतामिव ॥ 3-314-54(28002)
यक्ष उवाच। 3-314-55x(2893)
किमेकं यज्ञियं साम किमेकं यज्ञियं यजुः।
का चैषां वृणुते यज्ञं कां यज्ञो नातिवर्तते ॥ 3-314-55(28003)
युधिष्ठिर उवाच। 3-314-56x(2894)
प्राणो वै यज्ञियंसाम मनो वै यज्ञियं यजुः।
ऋगेका वृणुते यज्ञं तां यज्ञो नातिवर्तते ॥ 3-314-56(28004)
यक्ष उवाच। 3-314-57x(2895)
किंस्विदावपतां श्रेष्ठं रकिंस्विन्निवपतां वरम्।
किंस्वित्प्रतिष्ठमानानां किस्वित्प्रसवतांवरम् ॥ 3-314-57(28005)
युधिष्ठिर उवाच। 3-314-58x(2896)
वर्षमावपतां श्रेष्ठं बीजं निवपतां वरम्।
गावः प्रतिष्ठमानानां पुत्रः प्रसवतां वरः ॥ 3-314-58(28006)
यक्ष उवाच। 3-314-59x(2897)
इन्द्रियार्थाननुभवन्बुद्धिमाँल्लोकपूजितः।
संमतः सर्वभूतानामुच्छ्वसन्को न जीवति ॥ 3-314-59(28007)
युधिष्ठिर उवाच। 3-314-60x(2898)
देवतातिथिभृत्यानां पितॄणामात्मनश्च यः।
न निर्वपति पञ्चानामुच्छ्वसन्न स जीवति ॥ 3-314-60(28008)
यक्ष उवाच। 3-314-61x(2899)
किंस्विद्गुरुतरं भूमेः किंस्विदुच्चतरं च स्वात्।
किंस्विच्छीघ्रतरं वायोः किंस्विद्बहुतरं तृणात् ॥ 3-314-61(28009)
युधिष्ठिर उवाच। 3-314-62x(2900)
माता गुरुतरा भूमेः खात्पितोच्चतरस्तथा।
मनः शीघ्रतरं वाताच्चिन्ता बहुतरी तृणात् ॥ 3-314-62(28010)
यक्ष उवाच। 3-314-63x(2901)
किंस्वित्सुप्तं न निमिषति किंस्विज्जातं न चेङ्गते।
कस्यस्विद्धृदयं नास्तिकास्विद्वेगेन वर्धते ॥ 3-314-63(28011)
युधिष्ठिर उवाच। 3-314-64x(2902)
मत्स्यः सुप्तो न निमिषत्यण्डं जातं न चेङ्गते।
अश्मनो हृदयंनास्ति नदी वेगेन वर्धते ॥ 3-314-64(28012)
अक्ष उवाच। 3-314-65x(2903)
किंस्वित्प्रवसतो मित्रं किंस्विन्मित्रं गृहे सतः।
आतुरस् च किं मित्रं किंस्विन्मित्रं मरिष्यतः ॥ 3-314-65(28013)
युधिष्ठिर उवाच। 3-314-66x(2904)
विद्या प्रवसतो मित्रं भार्या मित्रं गृहे सतः।
आतुरस्य भिषङ्भित्रं दानं मित्रं मरिष्यतः ॥ 3-314-66(28014)
यक्ष उवाच। 3-314-67x(2905)
कोऽतिथिः सर्वभूतानां किं स्विद्धर्मं सनातनम्।
अमृतं किंस्विद्राजेन्द्रकिंस्वित्सर्वमिदं जगत् ॥ 3-314-67(28015)
युधिष्ठिर उवाच। 3-314-68x(2906)
अतिथिः सर्वभूतानामग्निः सोमो गवामृतम्।
सनातनोऽमृतो धर्मो वायुः सर्वमिदं जगत् ॥ 3-314-68(28016)
यक्ष उवाच। 3-314-69x(2907)
किंस्विदेको विचरते जातः को जायते पुनः।
किंस्विद्धिमस्य भैषज्यं किंस्विदावपनं महत् ॥ 3-314-69(28017)
युधिष्ठिर उवाच। 3-314-70x(2908)
सूर्य एको विचरते यन्द्रमा जायते पुनः।
अग्निर्हमस्य भैषज्यं भूमिरावपनं महत् ॥ 3-314-70(28018)
यक्ष उवाच। 3-314-71x(2909)
किंस्विदेकपदं धर्म्यं किंस्विदेकपदं यशः।
किंस्विदेकपदं स्वर्ग्यं किंस्विदेकपदं सुखम् ॥ 3-314-71(28019)
युधिष्ठिर उवाच। 3-314-72x(2910)
दाक्ष्यमेकपदं धर्म्यं दानमेकपदं यशः।
सत्यमेकपदं स्वर्ग्यं शीलमेकपदंसुखम् ॥ 3-314-72(28020)
यक्ष उवाच। 3-314-73x(2911)
किंस्विदात्मा मनुष्यस् किंस्विद्दैवकृतः सखा।
उपजीवनं किस्विदस् किंस्विदस्य परायणम् ॥ 3-314-73(28021)
युधिष्ठिर उवाच। 3-314-74x(2912)
पुत्र आत्मा मनुष्यस्य भार्या दैवकृतः सखा।
उपजीवनं च पर्जन्यो दानमस् परायणम् ॥ 3-314-74(28022)
यक्ष उवाच। 3-314-75x(2913)
धन्यानामुत्तमं किंस्विद्धनानां स्यात्किमुत्तमम्।
लाभानामुत्तमं किंस्यात्सुखानां स्यात्किमुत्तमं ॥ 3-314-75(28023)
धन्यानामुत्तमं दाक्ष्यंधनानामुत्तमं श्रुतम्।
लाभानां श्रेय आरोग्यं सुखानां तुष्टिरुत्तमा ॥ 3-314-76(28024)
यक्ष उवाच। 3-314-77x(2914)
किंस्विद्धर्मपरंलके कश्च धर्मः सदाफलः।
किं नियम्य न शोचन्ति कैश् सन्धिर्न जीर्यते ॥ 3-314-77(28025)
युधिष्ठिर उवाच। 3-314-78x(2915)
आनृशंस्यं परं धर्मात्रेताधर्मः सदाफलः।
मनो यम्य न शोचन्ति सन्धिः सद्भिर्न जीर्यते ॥ 3-314-78(28026)
यक्ष उवाच। 3-314-79x(2916)
किंनु हित्वाप्रियो भवति किंनु हित्वा न शोचति।
किंनु हित्वाऽर्थवान्भवति किंनु हित्वा सुखी भवेत् ॥ 3-314-79(28027)
युधिष्ठिर उवाच। 3-314-80x(2917)
मानं हित्वाप्रियो भवति क्रोधं हित्वा न शोचति।
कामं हित्वाऽर्थवान्भवति लोमं हित्वा सुखी भवेत् ॥ 3-314-80(28028)
यक्ष उवाच। 3-314-81x(2918)
किमर्थं ब्राह्मणे दानं किमर्थं नटनर्तके।
किमर्थं चैव भृत्येषु किमर्थं चैव राजसु ॥ 3-314-81(28029)
युधिष्ठिर उवाच। 3-314-82x(2919)
धर्मार्थं ब्राह्मणे दानं यशोर्थं नटनर्तके।
भृत्येषु सङ्ग्रहार्थं च भयार्थं चैव राजसु ॥ 3-314-82(28030)
यक्ष उवाच। 3-314-83x(2920)
अज्ञानेनावृतोलोकस्तमसा न प्रकाशते।
लोभात्त्यजतिमित्राणि सङ्गात्स्वर्गं न गच्छति ॥ 3-314-83(28031)
युधिष्ठिर उवाच। 3-314-84x(2921)
अज्ञानेनावृतोलोकस्तमसा न प्रकाशते।
लोभात्त्यजतिमित्राणि सङ्गात्स्वर्गं न गच्छति ॥ 3-314-84(28032)
यक्ष उवाच। 3-314-85x(2922)
मृत कथं स्यात्पुरुषः कथं राष्ट्रं मृतं भवत्।
श्राद्धं मृतंकथं वा स्यात्कथं यज्ञा मृतो भवेत् ॥ 3-314-85(28033)
युधिष्ठिर उवाच। 3-314-86x(2923)
मृतो दरिद्रः पुरुषोमृतंराष्ट्रमराजकम्।
मृतमश्रोत्रियं श्राद्धं मृतो यज्ञस्त्वदक्षिणः ॥ 3-314-86(28034)
यक्ष उवाच। 3-314-87x(2924)
का दिक्किमुदकंपार्थ किमन्नं किंच वै विषम्।
श्राद्धस् कालमाख्याहि ततः पिब हरस्व च ॥ 3-314-87(28035)
युधिष्ठिर उवाच। 3-314-88x(2925)
सन्तो दिग्जलमाकाशं गौरन्नं ब्राह्मणं विषम्।
श्राद्धस्य ब्राह्मणः कालः कथं वा यक्ष मन्यसे ॥ 3-314-88(28036)
यक्ष उवाच। 3-314-89x(2926)
तपः किंलक्षणं प्रोक्तं को दमश्च प्रकीर्तितः।
क्षमा च का परा प्रोक्ता का च ह्रीः परिकीर्तिता ॥ 3-314-89(28037)
युधिष्ठिर उवाच। 3-314-90x(2927)
तपः स्वधर्मवर्तित्वं मनसो दमनं दमः।
क्षमा द्वन्द्वसहिष्णुत्वंहीरकार्यनिवर्तनम् ॥ 3-314-90(28038)
यक्ष उवाच। 3-314-91x(2928)
किं ज्ञानं प्रोच्यते राजन्कः शमश्च प्रकीर्तितः।
दया च का परा प्रोक्ता किं चार्जवमुदाहृतम् ॥ 3-314-91(28039)
युधिष्ठिर उवाच। 3-314-92x(2929)
ज्ञानं तत्त्वार्थसम्बोधः शमश्चित्तप्रशान्तता।
दयासर्वसुखैपित्वमार्जवं समचित्तता ॥ 3-314-92(28040)
यक्ष उवाच। 3-314-93x(2930)
कः शत्रुर्दुर्जयः पुंसां कश्चव्याधिरनन्तकः।
कीदृशश्च स्मृतः साधुरसाधुः कीदृशः स्मृतः ॥ 3-314-93(28041)
युधिष्ठिर उवाच। 3-314-94x(2931)
क्रोधः सुदुर्जयः शत्रुर्लोभोव्याधिरनन्तकः।
सर्वभूतहितः साधुरसाधुर्निर्दयः स्मृतः ॥ 3-314-94(28042)
यक्ष उवाच। 3-314-95x(2932)
को मोहः प्रोच्यते राजन्कश् मानः प्रकीर्तितः।
किमालस्यं च विज्ञेयं कश्चशोकः प्रकीर्तितः ॥ 3-314-95(28043)
युधिष्ठिर उवाच। 3-314-96x(2933)
मोहो हिधर्ममूढ्तवंमानस्त्वात्माभिमानिता।
धर्मनिष्क्रियताऽऽलस्यं शोकस्त्वज्ञानमुच्यते ॥ 3-314-96(28044)
यक्ष उवाच। 3-314-97x(2934)
किं स्थैर्यमृषिभिः प्रोक्तं किं च धैर्यमुदाहृतम्।
स्नानं च किं परं प्रोक्तं दानं च किमिहोच्यते ॥ 3-314-97(28045)
युधिष्ठि उवाच। 3-314-98x(2935)
स्वधर्मे स्थिरता स्थैर्यं धैर्यमिन्द्रियनिग्रहः।
स्नानं मनोमलत्यागो दानं वै भूतरक्षणम् ॥ 3-314-98(28046)
यक्ष उवाच। 3-314-99x(2936)
कः पण्डिः पुमान्ज्ञेयो नास्तिकः कश्च उच्यते।
को मूर्खः कश्चकामः स्यात्को मत्सर इति स्मृतः ॥ 3-314-99(28047)
युधिष्ठिर उवाच। 3-314-100x(2937)
धर्मज्ञः पण्डितो ज्ञेयो नास्तिको मूर्ख उच्यते।
कामः संसारहेतुश्च हृत्तापो मत्सरः स्मृतः ॥ 3-314-100(28048)
यक्ष उवाच। 3-314-101x(2938)
कोऽहंकार यइतिप्रोक्तः कश्च दम्भः प्रकीर्तितः।
किं तद्दैवं परं प्रोक्तं किं तत्पैशुन्यमुच्यते ॥ 3-314-101(28049)
युधिष्ठिर उवाच। 3-314-102x(2939)
महाऽज्ञानमहंकारो दम्भो धर्मो ध्वजोच्छ्रयः।
दैवं रदानफलं प्रोक्तं पैशुन्यं परदूषणम् ॥ 3-314-102(28050)
यक्ष उवाच। 3-314-103x(2940)
धर्मश्चार्थश्च कामश्च परस्परविरोधिनः।
एषां नित्यविरुद्धानां कथमेकत्र संगमः ॥ 3-314-103(28051)
युधिष्ठिर उवाच। 3-314-104x(2941)
यदा धर्मश्भार्या च परस्परवशानुगौ।
तदा धर्मार्थकामानां त्रयाणामपि संगमः ॥ 3-314-104(28052)
यक्ष उवाच। 3-314-105x(2942)
अक्षयोनरकः केन प्राप्यते भरतर्षभ।
एतन्मे पृच्छतः प्रश्नं तच्छीघ्रं वक्तुमर्हसि ॥ 3-314-105(28053)
युधिष्ठिर उवाच। 3-314-106x(2943)
रब्राह्मणं स्वयमाहूय याचमानमकिंचनम्।
पश्चान्नास्तीति योब्रूयात्सोक्षयंनरकं व्रजेत् ॥ 3-314-106(28054)
वेदेषु धर्मशास्त्रेषु मिथ्या यो वै द्विजातिषु।
देवेषु पितृध्रमेषु सोऽक्षयंनरकं व्रजेत् ॥ 3-314-107(28055)
विद्यमाने धने लोभाद्दानभोगविवर्जितः।
पश्चान्नास्तीति यो ब्रूयात्सोक्षयं नरकं व्रजेत् ॥ 3-314-108(28056)
यक्ष उवाच। 3-314-109x(2944)
राजन्कुलेन वृत्तेन स्वाध्यायेन श्रुतेन वा।
ब्राह्मण्यं केन भवति प्रब्रूह्येतत्सुनिश्चितम् ॥ 3-314-109(28057)
युधिष्ठिर उवाच। 3-314-110x(2945)
शृणु यक्ष कुलं तात न स्वाध्यायो न च श्रुतम्।
कारणं हि द्विजत्वेच वृत्तमेव न संशयः ॥ 3-314-110(28058)
वृत्तं यत्नेन संरक्ष्यं ब्राह्मणेन विशेषतः।
अक्षीणवृत्तो न क्षीणो वृत्ततस्तु हतो हतः ॥ 3-314-111(28059)
पठकाः पाठकाश्चैव ये चान्ये शास्त्रचिन्तकाः।
सर्वे व्यसनिनो मूर्खा यः क्रियावान्स पण्डितः ॥ 3-314-112(28060)
चतुर्वेदोऽपि दुर्वृत्तः स शूद्रादतिरिच्यते।
योऽग्निहोत्रपोर दान्तः स ब्राह्मण इति स्मृतः ॥ 3-314-113(28061)
यक्ष उवाच। 3-314-114x(2946)
प्रियवचनवादी किं लभते
विमृशितकार्यकरः किं लभते।
बहुमित्रकरः किं लभते
धर्मे रतः किं लभते कथय ॥ 3-314-114(28062)
युधिष्ठिर उवाच। 3-314-115x(2947)
प्रियवचनवादी प्रीयो भवति
विमृशितकार्यकरोऽधिकं जयति।
बहुमित्रकरः सुखं वसत
यश्च धर्मरतः स गतिं लभते ॥ 3-314-115(28063)
यक्ष उवाच। 3-314-116x(2948)
कोमोदतेकिमाश्चर्यं कः पन्थाः का च वार्तिका।
वद मे चतुरः प्रश्नान्मृता जीवन्तु बान्धवाः ॥ 3-314-116(28064)
युधिष्ठिर उवाच 3-314-117x(2949)
पञ्चमेऽहनि षष्ठे वा शाकं पचति स्वे गृहे।
अनृणी रचाप्रवासी चस वारिचर मोदते ॥ 3-314-117(28065)
अहन्यहनि भूतानि गच्छन्तीह यमालयम्।
शेषाः स्थावरमिच्छन्ति किमाश्चर्यमतः परम् ॥ 3-314-118(28066)
तर्कोऽप्रतिष्ठः श्रुतयो विभिन्ना
नैको मुनिर्यस्य मतं प्रमाणम्।
धर्मस्य तत्त्वं निहितं गुहायां
महाजनो येन गतःस पन्था ॥ 3-314-119(28067)
पृथ्वी विभाण्डं गगनं पिघानं
सूर्याग्निना रात्रिदिवेन्धनेन।
मासर्तुदर्वीपरिघट्टनेन
भूतानि कालः पचतीति वार्ता ॥ 3-314-120(28068)
यक्ष उवाच। 3-314-121x(2950)
व्याख्याता मे त्वया प्रश्ना यथातत्वं परंतप।
पुरुषं त्विदानींव्याख्याहि यश्च सर्वधनी नरः ॥ 3-314-121(28069)
युधिष्ठिर उवाच। 3-314-122x(2951)
दिवं स्पृशति भूमिं च शब्दः पुण्येन कर्मणा।
यावत्स शब्दो भवति तावत्पुरुष उच्यते ॥ 3-314-122(28070)
तुल्ये प्रियाप्रिये यस् सुखदुःखे तथैव च।
अतीतानागते चोभे सवै पुरुष उच्येत ॥ 3-314-123(28071)
`समत्वं यस्य सर्वेषु निस्पृहः शान्तमानसः।
सुप्रसन्नः सदा योगी स वै सर्वधनी नरः' ॥ 3-314-124(28072)
यक्ष उवाच। 3-314-125x(2952)
व्याख्यातः पुरुषो राजन्यश्च सर्वधनी नरः।
तस्मात्त्वमेकं भ्रातृणां यमिच्छसि स जीवतु ॥ 3-314-125(28073)
युधिष्ठिर उवाच। 3-314-126x(2953)
श्यामो य एष रक्ताक्षो बृहत्साल इवोत्थितः।
व्यूढोरस्को महाबाहुर्नकुलो यक्ष जीवतु ॥ 3-314-126(28074)
यक्ष उवाच। 3-314-127x(2954)
प्रियस्ते भीमसेनोऽयमर्जुनो वः परायणम्।
त्वं कस्मान्नकुलं राजन्सापत्नं जीवमिच्छसि ॥ 3-314-127(28075)
यस् नागसहस्रेण दशसङ्ख्येन वै बलम्।
तुल्यंतं भीममुत्सृज्य नकुलं जीवमिच्छसि ॥ 3-314-128(28076)
तथैनं मनुजाः प्राहुर्भीमसेनं प्रियं तव।
अथ कनानुभावेन सापत्नं जीवमिच्छसि ॥ 3-314-129(28077)
यस्य बाहुबलंसर्वेपाण्डवाः समुपासते।
अर्जुनं तमपाहाय नकुलं जीवमिच्छसि ॥ 3-314-130(28078)
युधिष्ठिर उवाच। 3-314-131x(2955)
धर्म एव हतो हन्ति ध्रमो रक्षति रक्षितः।
तस्माद्धऱ्मं न त्यजामि मा नो धर्मो हतोऽवधीत् ॥ 3-314-131(28079)
आनृशंस्यं परो धर्मः परमार्थाच्चमे मतम्।
आनृशंस्यं चिकीर्षामि नकुलो यक्ष जीवतु ॥ 3-314-132(28080)
धर्मशीलः सदा राजाइतिमां मानवा विदुः।
स्वधर्मान्न चलिष्यामि नकुलो यक्ष जीवतु ॥ 3-314-133(28081)
कुन्ती चैव तु माद्री च द्वे भार्ये तु पितुर्मम।
उभे सपुत्रे स्यातां वै इतिमे धीयते मतिः ॥ 3-314-134(28082)
यथा कुन्ती तथा माद्री विशेषो नास्ति मे तयोः।
मातृभ्यां सममिच्छामि नकुलो यक्ष जीवतु ॥ 3-314-135(28083)
यक्ष उवाच। 3-314-136x(2956)
3-314-136(28084)
यस् तेऽर्थाच्च कामच्च आनृशंस्यं परं मतम्।
तस्मात्ते भ्रातरः सर्वे जीवन्तु भरतर्षभ ॥
Mahabharata - Vana Parva - Chapter Footnotes
3-314-6 बिधर्भिण्योऽनृताः ॥ 3-314-9 न कस्यचिदजेताऽपितु सर्वस्यैव जेता ॥ 3-314-10 आशां राज्याशाम्। संहत्य विनाश्य ॥ 3-314-16 दध्यौ कारणं मरणहेतुं विचारितवान् ॥ 3-314-18 तपःसुतः धर्मपुत्रः ॥ 3-314-22 दुष्कृतेःपापाकर्मणः ॥ 3-314-28 ओघवलान् महाप्रवाहयेगान्। प्रतिसमासेत प्रतियुद्ध्येत् करोति यस्तादृशो यनऋ कालान्तकयमस्तस्मात् ॥ 3-314-32 प्रयानभाक् प्राधान्यभाक् ।. 3-314-34 अतीव ते महदितिपाठे ते तथ ॥ 3-314-48 वेदास्तस्याभितश्चरा इति अधर्मस्तमस्तं नयतीति क. च. ध.पाठः ॥ 3-314-49 केन द्वितयो भवतीति ध. पाठः ॥ 3-314-54 परित्याग आर्तानामिति शेषः। दानमेषां सतामिवति क. पाठः ॥ 3-314-55 का चैका वृश्चत इति क. ध.पाटः ॥ 3-314-56 वागेका वृश्चतेऽयज्ञमिति क. पाठः ॥ 3-314-60 न निर्वपति न प्रयच्छति देवतादिभ्यः ॥ 3-314-62 उक्तसाधनाशक्तेन मातापित्रोः शुश्रूषा मनोनिरोधस्तृणवत्तुच्छायाश्चिन्तायस्त्यागश्च कर्तव्य इत्याह किंस्विद्गुर्विति। बहुतरं नृणामिति ध.पाठः। बहुतरी तृणादिति ध. पाठः ॥ 3-314-64 किंस्विज्जातं नचोपति इति झ. पाठः ॥ 3-314-66 सार्तः प्रवसतो मित्रमिति झ. पाठः ॥ 3-314-70 एकपदं एकमेव पर्यवसानस्थानम्। दाक्ष्ये कृत्स्ने धर्मः पर्यवसित इत्यर्तः। एवमुत्तरत्र ॥ 3-314-87 प्रार्थनाविषं इति झ. पाठः ॥ 3-314-126 जीवं जीवन्तम् ॥ 3-314-128 अनुभावेन नकुलगतसामर्थ्येन ॥ 3-314-130 नः अस्मान्मावधीत् ॥ 3-314-131 आनृशंस्यं अवैषम्यम्। परमार्थात् सत्यात् ॥ 3-314-133 धीयते निश्चिनुते ॥ 3-314-135 यस्मात्ते पार्थ धर्माच्च इति थ. ध. पाठः ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|